Friday, May 13, 2022

Shanidev - Pooja -శనైశ్చరుడి పూజ విధానం - శని పూజ విధానం

 


14 May 2022 - Shani Trayodashi. The following content in collected in this context


Morning aarti - Shinganapur

_________________


https://www.youtube.com/watch?v=bXoVMrA5SBM

_________________


శనివారం శనైశ్చరుడికి పూజ విధానం! | Shani Puja Vidhanam

https://www.youtube.com/watch?v=hsBlUC39Nc0




శ్రీ శని అష్టోత్తర శతనామావళి, శనీశ్వర అష్టోత్తర శతనామావళి

Shani Ashtothram In Telugu - Shani Ashtottara Shatanamavali Stotram

_________________


https://www.youtube.com/watch?v=E9DmFraRzJk

__________________

https://www.vishwamatha.com/sri-shani-ashtottara-shatanamavali.html

 శనైశ్చరస్తోత్రమ్ - Shani Stotram with Telugu Lyrics

https://www.youtube.com/watch?v=iZt51CgVARg

शनिवार स्पेशल:- श्री शनि अष्टकम l Shree Shani Ashtakam with lyrics

https://www.youtube.com/watch?v=wmPkON7QYMw


शनिदेव आरती | Shani Dev Aarti | Jai Jai Shani Dev Maharaj 

https://www.youtube.com/watch?v=sJ3Kg21bNrE


Sri Sanaischara Sahasranamam (Full)

https://www.youtube.com/watch?v=_ZrUFaZR5UY


दशरथार्चितपादश्च दशरथस्तोत्रतोषितः ।

दशरथ प्रार्थनाकॢप्त दुर्भिक्ष विनिवारकः ॥ ६७॥

दशरथ प्रार्थनाकॢप्त वरद्वय प्रदायकः ।

दशरथस्वात्मदर्शी च दशरथाभीष्टदायकः ॥ ६८॥


दोर्भिर्धनुर्धरश्चैव दीर्घश्मश्रुजटाधरः ।

दशरथस्तोत्रवरदो दशरथाभीप्सितप्रदः ॥ ६९॥

दशरथस्तोत्रसन्तुष्टो दशरथेन सुपूजितः ।

द्वादशाष्टमजन्मस्थो देवपुङ्गवपूजितः ॥ ७०॥


देवदानवदर्पघ्नो दिनं प्रतिमुनिस्तुतः ।

द्वादशस्थो द्वादशात्मा सुतो द्वादश नामभृत् ॥ ७१॥

द्वितीयस्थो द्वादशार्कसूनुर्दैवज्ञपूजितः ।

दैवज्ञचित्तवासी च दमयन्त्या सुपूजितः ॥ ७२॥


द्वादशाब्दंतु दुर्भिक्षकारी दुःस्वप्ननाशनः ।

दुराराध्यो दुराधर्षो दमयन्ती वरप्रदः ॥ ७३॥

दुष्टदूरो दुराचार शमनो दोषवर्जितः ।

दुःसहो दोषहन्ता च दुर्लभो दुर्गमस्तथा ॥ ७४॥


दुःखप्रदो दुःखहन्ता दीप्तरञ्जित दिङ्मुखः ।

दीप्यमान मुखाम्भोजो दमयन्त्याः शिवप्रदः ॥ ७५॥

दुर्निरीक्ष्यो दृष्टमात्र दैत्यमण्डलनाशकः ।

द्विजदानैकनिरतो द्विजाराधनतत्परः ॥ ७६॥


द्विजसर्वार्तिहारी च द्विजराज समर्चितः ।

द्विजदानैकचित्तश्च द्विजराज प्रियङ्करः ॥ ७७॥

द्विजो द्विजप्रियश्चैव द्विजराजेष्टदायकः ।

द्विजरूपो द्विजश्रेष्ठो दोषदो दुःसहोऽपि च ॥ ७८॥


देवादिदेवो देवेशो देवराज सुपूजितः ।

देवराजेष्ट वरदो देवराज प्रियङ्करः ॥ ७९॥

देवादिवन्दितो दिव्यतनुर्देवशिखामणिः ।

देवगानप्रियश्चैव देवदेशिकपुङ्गवः ॥ ८०॥


द्विजात्मजासमाराध्यो ध्येयो धर्मी धनुर्धरः ।

धनुष्मान् धनदाता च धर्माधर्मविवर्जितः ॥ ८१॥

धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतनः ।

धर्मराज प्रियकरो धर्मराज सुपूजितः ॥ ८२॥


धर्मराजेष्टवरदो धर्माभीष्टफलप्रदः ।

नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा ॥ ८३॥

निजपीडार्तिहारी च निजभक्तेष्टदायकः ।

निर्मासदेहो नीलश्च निजस्तोत्र बहुप्रियः ॥ ८४॥


नळस्तोत्र प्रियश्चैव नळराजसुपूजितः ।

नक्षत्रमण्डलगतो नमतां प्रियकारकः ॥ ८५॥

नित्यार्चितपदाम्भोजो निजाज्ञा परिपालकः ।

नवग्रहवरो नीलवपुर्नळकरार्चितः ॥ ८६॥


नळप्रियानन्दितश्च नळक्षेत्रनिवासकः ।

नळपाक प्रियश्चैव नळपद्भञ्जनक्षमः ॥ ८७॥

नळसर्वार्तिहारी च नळेनात्मार्थपूजितः ।

निपाटवीनिवासश्च नळाभीष्टवरप्रदः ॥ ८८॥


नळतीर्थसकृत् स्नान सर्वपीडानिवारकः ।

नळेशदर्शनस्याशु साम्राज्यपदवीप्रदः ॥ ८९॥

नक्षत्रराश्यधिपश्च नीलध्वजविराजितः ।

नित्ययोगरतश्चैव नवरत्नविभूषितः ॥ ९०॥


नवधा भज्यदेहश्च नवीकृतजगत्त्रयः ।

नवग्रहाधिपश्चैव नवाक्षरजपप्रियः ॥ ९१॥

नवात्मा नवचक्रात्मा नवतत्त्वाधिपस्तथा ।

नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ॥ ९२॥


निष्कण्टको निस्पृहश्च निरपेक्षो निरामयः ।

नागराजार्चितपदो नागराजप्रियङ्करः ॥ ९३॥

नागराजेष्टवरदो नागाभरण भूषितः ।

नागेन्द्रगान निरतो नानाभरणभूषितः ॥ ९४॥


नवमित्र स्वरूपश्च नानाश्चर्यविधायकः ।

नानाद्वीपाधिकर्ता च नानालिपिसमावृतः ॥ ९५॥

नानारूप जगत् स्रष्टा नानारूपजनाश्रयः ।

नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा ॥ ९६॥


नानारूपाधिकारी च नवरत्नप्रियस्तथा ।

नानाविचित्रवेषाढ्यो नानाचित्र विधायकः ॥ ९७॥

नीलजीमूतसङ्काशो नीलमेघसमप्रभः ।

नीलाञ्जनचयप्रख्यो नीलवस्त्रधरप्रियः ॥ ९८॥


नीचभाषा प्रचारज्ञो नीचे स्वल्पफलप्रदः ।

नानागम विधानज्ञो नानानृपसमावृतः ॥ ९९॥

नानावर्णाकृतिश्चैव नानावर्णस्वरार्तवः ।

नागलोकान्तवासी च नक्षत्रत्रयसंयुतः ॥ १००॥


नभादिलोकसम्भूतो नामस्तोत्रबहुप्रियः ।

नामपारायणप्रीतो नामार्चनवरप्रदः ॥ १०१॥

नामस्तोत्रैकचित्तश्च नानारोगार्तिभञ्जनः ।

नवग्रहसमाराध्यो नवग्रह भयापहः ॥ १०२॥


नवग्रहसुसम्पूज्यो नानावेद सुरक्षकः ।

नवग्रहाधिराजश्च नवग्रहजपप्रियः ॥ १०३॥

नवग्रहमयज्योतिर्नवग्रह वरप्रदः ।

नवग्रहाणामधिपो नवग्रह सुपीडितः ॥ १०४॥


नवग्रहाधीश्वरश्च नवमाणिक्यशोभितः ।

परमात्मा परब्रह्म परमैश्वर्यकारणः ॥ १०५॥

प्रपन्नभयहारी च प्रमत्तासुरशिक्षकः ।

प्रासहस्तः पङ्गुपादः प्रकाशात्मा प्रतापवान् ॥ १०६॥


पावनः परिशुद्धात्मा पुत्रपौत्र प्रवर्धनः ।

प्रसन्नात्सर्वसुखदः प्रसन्नेक्षण एव च ॥ १०७॥

प्रजापत्यः प्रियकरः प्रणतेप्सितराज्यदः ।

प्रजानां जीवहेतुश्च प्राणिनां परिपालकः ॥ १०८॥


प्राणरूपी प्राणधारी प्रजानां हितकारकः ।

प्राज्ञः प्रशान्तः प्रज्ञावान् प्रजारक्षणदीक्षितः ॥ १०९॥

प्रावृषेण्यः प्राणकारी प्रसन्नोत्सववन्दितः ।

प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधनः ॥ ११०॥


प्रजाकरः प्रातिकूल्यः पिङ्गळाक्षः प्रसन्नधीः ।

प्रपञ्चात्मा प्रसविता पुराण पुरुषोत्तमः ॥ १११॥

पुराण पुरुषश्चैव पुरुहूतः प्रपञ्चधृत् ।

प्रतिष्ठितः प्रीतिकरः प्रियकारी प्रयोजनः ॥ ११२॥


प्रीतिमान् प्रवरस्तुत्यः पुरूरवसमर्चितः ।

प्रपञ्चकारी पुण्यश्च पुरुहूत समर्चितः ॥ ११३॥

पाण्डवादि सुसंसेव्यः प्रणवः पुरुषार्थदः ।

पयोदसमवर्णश्च पाण्डुपुत्रार्तिभञ्जनः ॥ ११४॥


पाण्डुपुत्रेष्टदाता च पाण्डवानां हितङ्करः ।

पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदः ॥ ११५॥

पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकः ।

पाण्डुपुत्राद्यर्चितश्च पूर्वजश्च प्रपञ्चभृत् ॥ ११६॥


परचक्रप्रभेदी च पाण्डवेषु वरप्रदः ।

परब्रह्म स्वरूपश्च पराज्ञा परिवर्जितः ॥ ११७॥

परात्परः पाशहन्ता परमाणुः प्रपञ्चकृत् ।

पातङ्गी पुरुषाकारः परशम्भुसमुद्भवः ॥ ११८॥


प्रसन्नात्सर्वसुखदः प्रपञ्चोद्भवसम्भवः ।

प्रसन्नः परमोदारः पराहङ्कारभञ्जनः ॥ ११९॥

परः परमकारुण्यः परब्रह्ममयस्तथा ।

प्रपन्नभयहारी च प्रणतार्तिहरस्तथा ॥ १२०॥


प्रसादकृत् प्रपञ्चश्च पराशक्ति समुद्भवः ।

प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकरः ॥ १२१॥

प्रपञ्चात्मा प्रपञ्चोपशमनः पृथिवीपतिः ।

परशुराम समाराध्यः परशुरामवरप्रदः ॥ १२२॥


परशुराम चिरञ्जीविप्रदः परमपावनः ।

परमहंसस्वरूपश्च परमहंससुपूजितः ॥ १२३॥

पञ्चनक्षत्राधिपश्च पञ्चनक्षत्रसेवितः ।

प्रपञ्च रक्षितश्चैव प्रपञ्चस्य भयङ्करः ॥ १२४॥


फलदानप्रियश्चैव फलहस्तः फलप्रदः ।

फलाभिषेकप्रियश्च फल्गुनस्य वरप्रदः ॥ १२५॥

फुटच्छमित पापौघः फल्गुनेन प्रपूजितः ।

फणिराजप्रियश्चैव फुल्लाम्बुज विलोचनः ॥ १२६॥


बलिप्रियो बली बभ्रुर्ब्रह्मविष्ण्वीश क्लेशकृत् ।

ब्रह्मविष्ण्वीशरूपश्च ब्रह्मशक्रादिदुर्लभः ॥ १२७॥

बासदर्ष्ट्या प्रमेयाङ्गो बिभ्रत्कवचकुण्डलः ।

बहुश्रुतो बहुमतिर्ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२८॥


बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।

बालार्कद्युतिमान्बालो बृहद्वक्षा बृहत्तनुः ॥ १२९॥

ब्रह्माण्डभेदकृच्चैव भक्तसर्वार्थसाधकः ।

भव्यो भोक्ता भीतिकृच्च भक्तानुग्रहकारकः ॥ १३०॥


भीषणो भैक्षकारी च भूसुरादि सुपूजितः ।

भोगभाग्यप्रदश्चैव भस्मीकृत जगत्त्रयः ॥ १३१॥

भयानको भानुसूनुर्भूतिभूषित विग्रहः ।

भास्वद्रतो भक्तिमतां सुलभो भ्रुकुटीमुखः ॥ १३२॥


भवभूत गणैःस्तुत्यो भूतसंघसमावृतः ।

भ्राजिष्णुर्भगवान्भीमो भक्ताभीष्टवरप्रदः ॥ १३३॥

भवभक्तैकचित्तश्च भक्तिगीतस्तवोन्मुखः ।

भूतसन्तोषकारी च भक्तानां चित्तशोधनः ॥ १३४॥


भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।

भूतिदो भूतिकृद् भोज्यो भूतात्मा भुवनेश्वरः ॥ १३५॥

मन्दो मन्दगतिश्चैव मासमेव प्रपूजितः ।

मुचुकुन्द समाराध्यो मुचुकुन्द वरप्रदः ॥ १३६॥


मुचुकुन्दार्चितपदो महारूपो महायशाः ।

महाभोगी महायोगी महाकायो महाप्रभुः ॥ १३७॥

महेशो महदैश्वर्यो मन्दार कुसुमप्रियः ।

महाक्रतुर्महामानी महाधीरो महाजयः ॥ १३८॥


महावीरो महाशान्तो मण्डलस्थो महाद्युतिः ।

महासुतो महोदारो महनीयो महोदयः ॥ १३९॥

मैथिलीवरदायी च मार्ताण्डस्य द्वितीयजः ।

मैथिलीप्रार्थनाकॢप्त दशकण्ठ शिरोपहृत् ॥ १४०॥


मरामरहराराध्यो महेन्द्रादि सुरार्चितः ।

महारथो महावेगो मणिरत्नविभूषितः ॥ १४१॥

मेषनीचो महाघोरो महासौरिर्मनुप्रियः ।

महादीर्घो महाग्रासो महदैश्वर्यदायकः ॥ १४२॥


महाशुष्को महारौद्रो मुक्तिमार्ग प्रदर्शकः ।

मकरकुम्भाधिपश्चैव मृकण्डुतनयार्चितः ॥ १४३॥

मन्त्राधिष्ठानरूपश्च मल्लिकाकुसुमप्रियः ।

महामन्त्र स्वरूपश्च महायन्त्रस्थितस्तथा ॥ १४४॥


महाप्रकाशदिव्यात्मा महादेवप्रियस्तथा ।

महाबलि समाराध्यो महर्षिगणपूजितः ॥ १४५॥

मन्दचारी महामायी माषदानप्रियस्तथा ।

माषोदन प्रीतचित्तो महाशक्तिर्महागुणः ॥ १४६॥


यशस्करो योगदाता यज्ञाङ्गोऽपि युगन्धरः ।

योगी योग्यश्च याम्यश्च योगरूपी युगाधिपः ॥ १४७॥

यज्ञभृद् यजमानश्च योगो योगविदां वरः ।

यक्षराक्षसवेताळ कूष्माण्डादिप्रपूजितः ॥ १४८॥


यमप्रत्यधिदेवश्च युगपद् भोगदायकः ।

योगप्रियो योगयुक्तो यज्ञरूपो युगान्तकृत् ॥ १४९॥

रघुवंश समाराध्यो रौद्रो रौद्राकृतिस्तथा ।

रघुनन्दन सल्लापो रघुप्रोक्त जपप्रियः ॥ १५०॥


रौद्ररूपी रथारूढो राघवेष्ट वरप्रदः ।

रथी रौद्राधिकारी च राघवेण समर्चितः ॥ १५१॥

रोषात्सर्वस्वहारी च राघवेण सुपूजितः ।

राशिद्वयाधिपश्चैव रघुभिः परिपूजितः ॥ १५२॥


राज्यभूपाकरश्चैव राजराजेन्द्र वन्दितः ।

रत्नकेयूरभूषाढ्यो रमानन्दनवन्दितः ॥ १५३॥

रघुपौरुषसन्तुष्टो रघुस्तोत्रबहुप्रियः ।

रघुवंशनृपैःपूज्यो रणन्मञ्जीरनूपुरः ॥ १५४॥


रविनन्दन राजेन्द्रो रघुवंशप्रियस्तथा ।

लोहजप्रतिमादानप्रियो लावण्यविग्रहः ॥ १५५॥

लोकचूडामणिश्चैव लक्ष्मीवाणीस्तुतिप्रियः ।

लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ॥ १५६॥


लोकाध्यक्षो लोकवन्द्यो लक्ष्मणाग्रजपूजितः ।

वेदवेद्यो वज्रदेहो वज्राङ्कुशधरस्तथा ॥ १५७॥

विश्ववन्द्यो विरूपाक्षो विमलाङ्गविराजितः ।

विश्वस्थो वायसारूढो विशेषसुखकारकः ॥ १५८॥




https://www.sanatangroup.org/shanashchar-sahasranama-stotram-2/6139/






1 comment:

  1. This is Called a Nicely Written Content . Thanks For Sharing Such a Informative Article here . Also Check .Top AI Colleges in India

    ReplyDelete