Tuesday, April 16, 2024

Varnah - Meaning in sanskrit

 


वर्णः

https://sa.wiktionary.org/s/ffu




यन्त्रोपारोपितकोशांशः  कल्पद्रुमः





वर्णः, पुं, (व्रियते इति । वृ + “कॄवृजॄषिद्रुगुपन्य- निस्वपिभ्यो नित् ।” उणा० ३ । १० । इति नः । स च नित् ।) जातिः । सा च ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्च । एषामुत्पत्त्यादिर्यथा । यदा भगवान् पुरुषरूपेण सृष्टिं कृतवान् तदास्य शरीरात् चत्वारो वर्णा उत्पन्नाः । मुखतो ब्राह्मणाः बाहुतः क्षत्त्रियाः ऊरुतो वैश्याः पादतः शूद्रा जाताः । एतेषां वर्णानां धर्म्माः शास्त्रेषु निरूपिताः सन्ति । 

तत्र ब्राह्मणधर्म्मा उच्यन्ते । अध्ययनं यजनं दानञ्चेति । जीविका- स्त्रयः अध्यापनं याजनं प्रतिग्रहश्चेति । १ । 

क्षत्त्रियस्य त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । प्रजानां रक्षणं जीविका । २ । 

वैश्यस्य त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । चतस्रो जीविकाः । कृषिः गोरक्षणं बाणिज्यं कुशीद- ञ्चेति । ३ । 

शूद्रस्य तु ब्रह्मक्षत्त्रविशां शुश्रूषा धर्म्मो जीविका च । ४ ।

 ब्राह्मणा आश्रम- चतुष्टयवन्तो भवन्ति । ब्रह्मचारी गृहस्थः वानप्रस्थः सन्न्यासी च । तत्र उपनयनानन्तरं नियमं कृत्वा यो गुरोः सन्निधौ स्थित्वा साङ्ग- वेदाध्ययनं करोति स ब्रह्मचारीत्युच्यते । १ । साङ्गवेदाध्ययनं समाप्य यो दारपरिग्रहं कृत्वा स्वधर्म्माचरणं करोति स गृहस्थ उच्यते । २ । पुत्त्रमुत्पाद्य यो वनवासं कृत्वा अकृष्टपच्यफलादि भक्षयित्वा ईश्वराराधनं करोति स वानप्रस्थ उच्यते । ३ । यः सर्व्वं गृहादिकं त्यक्त्वा मुण्डित- मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्च विभ्रत् भिक्षावृत्तिर्निर्जने तीर्थे वा स्थित्वा केवल- मीश्वराराधनं करोति स सन्न्यासीत्युच्यते ॥ ४ ॥ 

क्षत्त्रियवैश्ययोस्तु प्रथमाश्रमत्रयं विहितम् ।

शूद्रस्यैक एव गृहाश्रमः ।

 ईश्वराराधनन्तु सर्व्वेषां वर्णानामाश्रमाणाञ्च साधारणो धर्म्मः । 

तन्मध्ये यस्तु विष्णूपासकः स वैष्णव उच्यते । शिवोपासकः शैवः । दुर्गादिशक्त्युपासकः शाक्तः । सूर्य्योपासकः सौरः । गणेशोपासको गाणपत्य उच्यते । इति पुराणार्थप्रकाशः ॥ * ॥ अपि च । विवेकी धनपूत्त्रादौ वितृष्णः करुणः सदा । संसारं स्वप्नवद्बीक्ष्य क्षान्तः सन्तुष्टमानसः ॥ 

पत्रमूलफलाहारी जलाशी वायुभोजनः । निराहारोऽथवा शुद्धोऽहर्निशं तप आचरेत् । एवं कुर्व्वन् महाभाग ब्राह्मणः सिद्धिमाप्नुयात् ॥ चतुर्थमाश्रमं वक्ष्ये मुक्तिसोपानमेव हि । गुरोः पुरोधमासास्य भिक्षुः सन्न्यासधर्म्मवित् ॥ विचरेत् सकलां पृथ्वीं लब्धाशी शान्त उत्सुकः । योगाभ्यासरतो नित्यं धर्म्मसञ्चयतत्परः । धर्म्माधर्म्मविहीनो वा भिक्षुकः सिद्धिमा- प्नुयात् ॥” इति पाद्मे स्वर्गखण्डे २५ । २६ । २७ अध्यायाः ॥ * ॥ अन्यत् नारसिंहपुराणे ५९ अध्याये मार्कण्डेय- पुराणे मदालसोपाख्याने कूर्म्मपूराणे २ । ३ अध्याये च द्रष्टव्यम् ॥ * ॥ * ॥ 

गजचित्रकम्बलः । हातीर झुल् इति भाषा । तत्पर्य्यायः । प्रवेणी २ आस्तरणम् ३ परिस्तोमः ४ कुथः ५ कुथा ६ । इत्यमरः ॥ प्रवेणिः ७ परिष्टोमः ८ कुथम् ९ । इति भरतः ॥ शुक्लादिः । 


रङ् इति ख्यातः । स च बहुविधो यथा । श्वेतः १ पाण्डुः २ धूसरः ३ कृष्णः ४ पीतः ५ हरितः ६ रक्तः ७ शोणः ८ अरुणः ९ पाटलः १० श्यावः ११ धूम्रः १२ पिङ्गलः १३ कर्व्वुरः १४ । इति चामरः ॥ 

गर्भस्थबालकस्य षष्ठे मासि वर्णो भवति । इति सुखबोधः ॥ 

यशः । गुणः । स्तुतिः । इति मेदिनी । णे, २६ ॥ 

स्वर्णम् । व्रतम् । रूपम् । अक्षरम् । भेदः । गीतक्रमः । चित्रम् । तालविशेषः । अङ्गरागः । इति हेमचन्द्रः ॥


वर्णः, पुं, क्ली, (वर्ण्यते भिद्यते इति । वर्ण + घञ् ।) भेदः । (वर्ण्यते दीप्यतेऽनेनेति ।) वर्ण + घञ् ।) रूपम् । (वर्णयति । वर्ण + अच् ।) अक्षरम् । (वर्ण्यते रज्यते इति । वर्ण + घञ् ।) विलेपनम् । इति मेदिनी । णे, २६ ॥ * ॥ वर्णश्च द्विविधः । ध्वन्यात्मकः अक्षरात्मकश्च । अस्योत्पत्तिप्रकारो यथा, -- “अव्नैषद्यान्मुखश्रोत्रमार्गस्याविषदाक्षरम् । अप्यव्यक्तं प्रलपति यदा सा कुण्डली तदा । मूलाधारे विष्वणति सुषुम्नां वेष्टते मुहुः ॥” इति प्रपञ्चसारः ॥ अस्यार्थः । मुखश्रोत्रमार्गस्यावैषद्यात् अनैर्म्म- ल्याद्धेतोर्यदा सा कुण्डली अविषदाक्षरं अवि- ष्पष्टमक्षरं यत्राव्यक्ते ध्वनौ तं प्रलपति अर्थात् कलभाषणादिकं करोति तदा मूलाधारे विष्व- णति शब्दायते सुषुम्नाञ्च मुहुर्व्वेष्टते । इति तट्टीका ॥ * ॥ अस्य कुण्डलीस्वरूपत्वं यथा, -- “कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी । त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी ॥ द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी । गुणिता सर्व्वगात्रेण कुण्डली परदेवता ॥ विश्वात्मनापबुद्धा सा सूते मन्त्रमयं जगत् । एकधा गुणिता शक्तिः सर्व्वविश्वप्रवर्त्तिनी ॥ वलान्तस्थाने नलान्त इति सर्व्वाङ्गस्थाने सर्व्वाग इति वा पाठः । क्षेत्रपालो महाक्षोभो मातृकान्तानलक्षयः । मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः । छायापुत्त्रश्च संघातो मलयः श्रीर्ललाटकः ॥” क्षः ॥ इति नन्दनभट्टाचार्य्यविरचितं वर्णाभिधानं समाप्तम् ॥

https://sa.wiktionary.org/wiki/%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%83












No comments:

Post a Comment